वांछित मन्त्र चुनें

ज॒नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑: सेहा॒नः पृत॑ना उ॒रु ज्रय॒: सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥

अंग्रेज़ी लिप्यंतरण

janitā divo janitā pṛthivyāḥ pibā somam madāya kaṁ śatakrato | yaṁ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvām̐ indra satpate ||

पद पाठ

ज॒नि॒ता । दि॒वः । ज॒नि॒ता । पृ॒थि॒व्याः । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥ ८.३६.४

ऋग्वेद » मण्डल:8» सूक्त:36» मन्त्र:4 | अष्टक:6» अध्याय:3» वर्ग:18» मन्त्र:4 | मण्डल:8» अनुवाक:5» मन्त्र:4